मुख्यपृष्ठम्

शास्त्रसम्बद्धाः लेखाः
शास्त्रीयलेखाः
तैत्तिरीयोपनिषत् प्रसिद्धासु दशसु उपनिषत्सु अन्यतमा। इयं कृष्णयजुर्वेदीयतैत्तिरीयशाखान्तर्गता। इयम् उपनिषत् वल्लीत्रयेण विभक्ता विद्यते। प्रथमा वल्ली वर्णोच्चारविषयकः इत्यतः शिक्षावल्ली इति निर्दिश्यते। द्वितीयायां वल्ल्याम् आनन्दस्य मीमांसा विद्यते इत्यतः ब्रह्मानन्दवल्ली इति निर्दिश्यते। तृतीयायां वल्ल्यां वरुणस्य पुत्रः भृगुः प्रश्नोत्तरैः तपसा ब्रह्मज्ञानं प्राप्तवान् इत्यतः भृगुवल्ली इति निर्दिश्यते। इयम् उपनिषत् प्रवृत्तिपरा वर्तते। अत्र प्रस्तुतः पञ्चकोशविचारः तत्त्वज्ञानदृष्ट्या बहुव्यापकं बोधपरञ्च वर्तते। अत्रत्या आनन्दमीमांसा च विशेषमहत्त्वयुता वर्तते। अस्याः उपनिषदः तिसृषु वल्लीषु त्रिविधाः मीमांसाः प्रस्तुताः। (अधिकवाचनाय »)



प्रश्नस्य उत्तरं जानासि?
ज्ञायते किं भवता?
पञ्च भूतानि कानि ?
पृथिवी
आपः
तेजः
वायुः
आकाशः



आधुनिकलेखः
आधुनिकाः लेखाः
नागौरदुर्गम्

नागौर राजस्थानराज्ये स्थितस्य नागौरमण्डलस्य केन्द्रम् अस्ति। नागौर-नगरस्य स्थापना नागवंशिभिः कृता इति तस्य नाम्ना ज्ञायते। एतस्य नगरस्य स्थापना द्वितीयायाम् उत तृतीयायां शताब्द्याम् अभवत्। यतो हि कुषाण-जनानां विरुद्धं नागवंशिनः आहताः अभूवन्। ततः वाकाटक-वंशीयाः, गुप्तवंशीयाः च सम्राजः तेषाम् उन्मूलनम् अकुर्वन्। अहिच्छत्रपुरं, नागपुरं, नागपट्टनम्, अहिपुरं, भुजङ्गनगरं च नागौर-नगरस्य नामान्तराणि। नागौर-नगरस्य सुन्दरतायाः वर्णनं कुर्वन् मोहम्मद हलीम सिद्दीकी इत्येषः अलिखत्, प्रत्येकेन दृष्टिकोणेन नागौर-नगरम् अत्यन्तं सुन्दरं नगरम् आसीत्। नागौर-नगरत् २ माइल दक्षिणपूर्वदिशः सौन्दर्यं नागौर-नगरस्य मुख्याकर्षणम् आसीत्। एतत् नगरम् परितः काश्चित् दीर्घा भित्तिका आसीत्। तस्याः भित्तिकायाः दैर्घ्यं ४ माइल् आसीत्। तस्याः भित्तिकायाः औन्नत्यं प्रदेशानुसारम् आसीत्। कुत्रचित् सा भित्तिका २.५ फीट्, अन्यत्र ५ फीट्, अपरत्र १७ फीट् च उन्नता आसीत्। नागौर-नगरस्य षट्द्वाराणि आसन्। तेषु द्वारेषु त्रीणि दक्षिणदिशायाम्, चतुर्थद्वारम् उत्तरदिशायां, पञ्चमद्वारं पश्चिमदिशायां, षष्ठमद्वारं पूर्वदिशायां च आसीत्। एतानि षट्द्वाराणि क्रमेण अजयमेरुद्वारं, जोधपुरद्वारं, नखासद्वारं, भायाद्वारं, देहलीद्वारं च प्रसिद्धानि। नागौर-नगरे अनेके देवनागरीलिप्या, फारसी-लिप्या च लिखिताः शिलालेखाः प्राप्यन्ते। नागौर-नगरात् अनेकाः देवमूर्तयः प्राप्ताः। ताः मूर्तयः नागौर-नगरस्य मन्दिरेभ्यः, गृहेभ्यः, समाधिस्थलेभ्यः, यवनप्रार्थनागृहेभ्यः च प्राप्ताः। (अधिकवाचनाय »)




वर्तमानघटनाः
अद्यतनं सुभाषितम्
व्याधितस्यार्थहीनस्य देशान्तरगतस्य च।

नरस्य शोकदग्धस्य सुहृद्दर्शनमौषधम् ॥

सुभाषितरत्नभाण्डागारम् - सुमित्रप्रशंसा (९२/१०)

प्रायः लोके सर्वेषाम् अपि स्नेहिताः भवन्ति एव। बान्धवाः बहवः स्युः नाम, तथापि मित्राणि सन्ति चेत् एव तस्य नरस्य जीवनं सुखि जीवनम्। यतः यस्य मित्राणि भवन्ति तस्य जीवने सर्वविधसौख्यम् अपि भवति। मनुष्यस्य कष्टसमये मित्रं सान्त्वनवचनै:, अन्येन प्रकारेण वा साहाय्यम् आचरति। तत्रापि रुग्णावस्थायां, दारिद्र्यदशायां, देशान्तरनिवासप्रसङ्गे, दु:खावस्थायां च यदि मित्राणां दर्शनं भवति तर्हि तत् औषधमिव सर्वमपि कष्टं दु:खं च परिहरति।


सहपरियोजनाः